व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो । महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥
vayaṁ ta indra stomebhir vidhema tvam asmākaṁ śatakrato | mahi sthūraṁ śaśayaṁ rādho ahrayam praskaṇvāya ni tośaya ||
व॒यम् । ते॒ । इ॒न्द्र॒ । स्तोमे॑भिः । वि॒धे॒म॒ । त्वम् । अ॒स्माक॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । महि॑ । स्थू॒रम् । श॒श॒यम् । राधः॑ । अह्र॑यम् । प्रस्क॑ण्वाय । नि । तो॒श॒य॒ ॥ ८.५४.८